🪷
श्री विष्णु स्तोत्र
जगत्पालक श्री विष्णु भगवान् की स्तुतियाँ
स्कन्दपुराणान्तर्गतम्
सङ्कष्टनाशन विष्णु स्तोत्रम्
नारद उवाच ।पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥
देवा ऊचुः ।नमो मत्स्यकूर्मादिनानास्वरूपैःसदा भक्तकार्योद्यतायाऽऽर्तिहन्त्रे ।विधात्रादि सर्गस्थितिध्वंसकर्त्रेगदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥ २ ॥
रमावल्लभायाऽसुराणां निहन्त्रेभुजङ्गारियानाय पीताम्बराय ।मखादिक्रियापाककर्त्रे विकर्त्रेशरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥
नमो दैत्यसन्तापितामर्त्यदुःखा--चलध्वंसदम्भोलये विष्णवे ते ।भुजङ्गेशतल्पेशयानाऽर्कचन्द्र--द्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४ ॥
नारद उवाच ।सङ्कष्टनाशनं नाम स्तोत्रमेतत् पठेन्नरः ।स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥ ५ ॥
इति स्कान्दपुराणे द्वितीये वैष्णवखण्डे कार्तीकमासमाहात्म्ये षोडशोऽध्याये सङ्कष्टनाशन श्री विष्णु स्तोत्रम्।
श्री विष्णोः षोडशनाम स्तोत्रम्
औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १ ॥
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ २ ॥
दुस्स्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम् ।कानने नारसिंहं च पावके जलशायिनम् ॥ ३ ॥
जलमध्ये वराहं च पर्वते रघुनन्दनम् ।गमने वामनं चैव सर्वकालेषु माधवम् ॥ ४ ॥
षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् ।सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ५ ॥
