🔱
श्री शिव स्तोत्र
भगवान् शिव की प्रमुख स्तुतियाँ
रावण विरचितम्
श्री शिव ताण्डव स्तोत्रम्
जटाटवी गलज्जल प्रवाह पावितस्थलेगलेवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।डमड्डमड्डमड्डमन्निनादवड्डमर्वयंचकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १ ॥
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरीविलोलवीचिवल्लरी विराजमानमूर्धनि ।धगद्धगद्धगज्ज्वलल्ललाट पट्टपावकेकिशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ २ ॥
धराधरेन्द्र नन्दिनी विलासबन्धु बन्धुरस्फुरद्दिगन्त सन्तति प्रमोद मानमानसे ।कृपाकटाक्षधोरणी निरुद्ध दुर्धरापदिक्वचिद्दिगम्बरे मनोविनोदमेतु वस्तुनि ॥ ३ ॥
जटाभुजङ्ग पिङ्गल स्फुरत्फणा मणिप्रभाकदम्ब कुङ्कुम द्रव प्रलिप्त दिग्वधूमुखे ।मदान्ध सिन्धुर स्फुरत्त्वगुत्तरीयमेदुरेमनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ ४ ॥
सहस्रलोचन प्रभृत्यशेषलेख शेखरप्रसूनधूलि धोरणी विधूसराङ्घ्रि पीठभूः ।भुजङ्गराजमालया निबद्ध जाटजूटकःश्रियै चिराय जायतां चकोरबन्धु शेखरः ॥ ५ ॥
ललाट चत्वरज्वलद्धनञ्जय स्फुलिङ्गभानिपीत पञ्चसायकं नमन्निलिम्पनायकम् ।सुधामयूखलेखया विराजमान शेखरंमहाकपालि सम्पदे शिरोजटालमस्तु नः ॥ ६ ॥
कराल फालपट्टिका धगद्धगद्धगज्ज्वल--द्धनञ्जयाहुतीकृत प्रचण्ड पञ्चसायके ।धराधरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक--प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥ ७ ॥
नवीनमेघमण्डली निरुद्ध दुर्धर स्फुरत्कुहू निशीथिनी तमः प्रबन्ध बद्ध कन्धरः ।निलिम्प निर्झरीधरस्तनोतु कृत्तिसिन्धुरःकलानिधान बन्धुरः श्रियं जगद्धुरन्धरः ॥ ८ ॥
प्रफुल्ल नील पङ्कज प्रपञ्च कालिमप्रभा--वलम्बि कण्ठ कन्दली रुचि प्रबद्ध कन्धरम् ।स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदंगजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥ ९ ॥
अखर्व सर्वमङ्गला कलाकदम्बमञ्जरीरसप्रवाह माधुरी विजृम्भणा मधुव्रतम् ।स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकंगजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥ १० ॥
जयत्वदभ्र विभ्रम भ्रमद्भुजङ्गमश्वस--द्विनिर्गमत् क्रमस्फुरत् कराल फालहव्यवाट् ।धिमिद्धिमिद्धिमिध्वनन् मृदङ्ग तुङ्ग मङ्गल--ध्वनिक्रम प्रवर्तित प्रचण्ड ताण्डवः शिवः ॥ ११ ॥
दृषद्विचित्र तल्पयोर्भुजङ्ग मौक्तिक स्रजो--र्गरिष्ठ रत्नलोष्ठयोः सुहृद्विपक्ष पक्षयोः ।तृणारविन्द चक्षुषोः प्रजामही महेन्द्रयोःसमप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् ॥ १२ ॥
कदा निलिम्पनिर्झरी निकुञ्जकोटरे वसन्विमुक्त दुर्मतिः सदा शिरस्थमञ्जलिं वहन् ।विलोल लोललोचनो ललामफाललग्नकःशिवेति मन्त्रमुच्चरन् कदा सुखी भवाम्यहम् ॥ १३ ॥
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवंपठन् स्मरन् ब्रुवन्नरो विशुद्धिमेति सन्ततम् ।हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिंविमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥ १४ ॥
पूजावसानसमये दशवक्त्रगीतंयः शम्भुपूजनपरं पठति प्रदोषे ।तस्य स्थिरां रथगजेन्द्र तुरङ्गयुक्तांलक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः ॥ १५ ॥
इति श्रीदशकण्ठरावण विरचितं श्री शिव ताण्डव स्तोत्रम्।
लिङ्गाष्टकम्
ब्रह्ममुरारिसुरार्चित लिङ्गंनिर्मलभासितशोभित लिङ्गम् ।जन्मजदुःखविनाशक लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ १ ॥
देवमुनिप्रवरार्चित लिङ्गंकामदहं करुणाकर लिङ्गम् ।रावणदर्पविनाशन लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ २ ॥
सर्वसुगन्धसुलेपित लिङ्गंबुद्धिविवर्धनकारण लिङ्गम् ।सिद्धसुरासुरवन्दित लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ ३ ॥
कनकमहामणिभूषित लिङ्गंफणिपतिवेष्टितशोभित लिङ्गम् ।दक्षसुयज्ञविनाशन लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ ४ ॥
कुङ्कुमचन्दनलेपित लिङ्गंपङ्कजहारसुशोभित लिङ्गम् ।सञ्चितपापविनाशन लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ ५ ॥
देवगणार्चितसेवित लिङ्गंभावैर्भक्तिभिरेव च लिङ्गम् ।दिनकरकोटिप्रभाकर लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ ६ ॥
अष्टदलोपरिवेष्टित लिङ्गंसर्वसमुद्भवकारण लिङ्गम् ।अष्टदरिद्रविनाशन लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ ७ ॥
सुरगुरुसुरवरपूजित लिङ्गंसुरवनपुष्पसदार्चित लिङ्गम् ।परात्परं परमात्मक लिङ्गंतत्प्रणमामि सदा शिव लिङ्गम् ॥ ८ ॥
लिङ्गाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।शिवलोकमवाप्नोति शिवेन सह मोदते ॥
श्रीमच्छङ्कराचार्य कृतम्
श्री शिव पञ्चाक्षर स्तोत्रम्
नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै नकाराय नमः शिवाय ॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दारमुख्यबहुपुष्पसुपूजितायतस्मै मकाराय नमः शिवाय ॥ २ ॥
शिवाय गौरीवदनाब्जबृन्द--सूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमः शिवाय ॥ ३ ॥
वसिष्ठकुम्भोद्भवगौतमार्य--मुनीन्द्रदेवार्चितशेखराय ।चन्द्रार्कवैश्वानरलोचनायतस्मै वकाराय नमः शिवाय ॥ ४ ॥
यक्षस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय ।दिव्याय देवाय दिगम्बरायतस्मै यकाराय नमः शिवाय ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिव पञ्चाक्षर स्तोत्रं सम्पूर्णम्।
गोस्वामी तुलसीदास कृतम्
श्री रुद्राष्टकम्
नमामीशमीशान निर्वाणरूपंविभुं व्यापकं ब्रह्मवेदस्वरूपम् ।निजं निर्गुणं निर्विकल्पं निरीहंचिदाकाशमाकाशवासं भजेऽहम् ॥ १ ॥
निराकारमोङ्कारमूलं तुरीयंगिराज्ञानगोतीतमीशं गिरीशम् ।करालं महाकालकालं कृपालुंगुणागारसंसारपारं नतोऽहम् ॥ २ ॥
तुषाराद्रिसङ्काशगौरं गभीरंमनोभूतकोटिप्रभासी शरीरम् ।स्फुरन्मौलिकल्लोलिनी चारुगङ्गालसद्भालबालेन्दु कण्ठे भुजङ्गम् ॥ ३ ॥
चलत्कुण्डलं शुभ्रनेत्रं विशालंप्रसन्नाननं नीलकण्ठं दयालुम् ।मृगाधीशचर्माम्बरं मुण्डमालंप्रियं शङ्करं सर्वनाथं भजामि ॥ ४ ॥
प्रचण्डं प्रकृष्टं प्रगल्भं परेशंअखण्डं भजे भानुकोटिप्रकाशम् ।त्रयीशूलनिर्मूलनं शूलपाणिंभजेऽहं भवानीपतिं भावगम्यम् ॥ ५ ॥
कलातीतकल्याणकल्पान्तकारीसदासज्जनानन्ददाता पुरारी ।चिदानन्दसन्दोहमोहापहारीप्रसीद प्रसीद प्रभो मन्मथारी ॥ ६ ॥
न यावदुमानाथपादारविन्दंभजन्तीह लोके परे वा नराणाम् ।न तावत्सुखं शान्ति सन्तापनाशंप्रसीद प्रभो सर्वभूताधिवासम् ॥ ७ ॥
न जानामि योगं जपं नैव पूजांनतोऽहं सदा सर्वदा देव तुभ्यम् ।जराजन्मदुःखौघतातप्यमानंप्रभो पाहि शापान्नमामीश शम्भो ॥ ८ ॥
रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतुष्टये ।ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥ ९ ॥
इति श्रीगोस्वामि तुलसीदास कृतं श्रीरुद्राष्टकम्।
पुष्पदन्त विरचितम्
श्री शिव महिम्नः स्तोत्रम्
महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयो--रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २ ॥
मधुस्फीता वाचः परमममृतं निर्मितवत--स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।मम त्वेतां वाणीं गुणकथनपुण्येन भवतःपुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।अभव्यानामस्मिन् वरद रमणीयामरमणींविहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥
किमीहः किं कायः स खलु किमुपायस्त्रिभुवनंकिमाधारो धाता सृजति किमुपादान इति च ।अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियःकुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगता--मधिष्ठातारं किं भवविधिरनादृत्य भवति ।अनीशो वा कुर्याद्भुवनजनने कः परिकरोयतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६ ॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमितिप्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषांनृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनःकपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितांन हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदंपरो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इवस्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥
तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चिर्हरिरधःपरिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १० ॥
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरंदशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेःस्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनंबलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसिप्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ १२ ॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती--मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो--र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३ ॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा--विधेयस्यासीद्यस्त्रिनयनविषं संहृतवतः ।स कल्माषः कण्ठे तव न कुरुते न श्रियमहोविकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरेनिवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।स पश्यन्नीश त्वामितरसुरसाधारणमभूत्स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५ ॥
मही पादाघाताद्व्रजति सहसा संशयपदंपदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटाजगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिःप्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।जगद्द्वीपाकारं जलधिवलयं तेन कृतमि--त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथोरथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि--र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८ ॥
हरिस्ते साहस्रं कमलबलिमाधाय पदयो--र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषात्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतांक्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवंश्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता--मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनोध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥ २१ ॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरंगतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुंत्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥
स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।यदि स्त्रैणं देवी यमनिरत देहार्धघटना--दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा--श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।अमङ्गल्यं शीलं तव भवतु नामैवमखिलंतथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४ ॥
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतःप्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।यदालोक्याह्लादं ह्रद इव निमज्यामृतमयेदधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५ ॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह--स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरंन विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ २६ ॥
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा--नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिःसमस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७ ॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां--स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपिप्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते ॥ २८ ॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमोनमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमोनमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥ २९ ॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमःप्रबलतमसे तत्संहारे हराय नमो नमः ।जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमःप्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥
कृशपरिणति चेतः क्लेशवश्यं क्व चेदंक्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।इति चकितममन्दीकृत्य मां भक्तिराधा--द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रेसुरतरुवरशाखा लेखनी पत्रमुर्वी ।लिखति यदि गृहीत्वा शारदा सर्वकालंतदपि तव गुणानामीश पारं न याति ॥ ३२ ॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले--र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।सकलगणवरिष्ठः पुष्पदन्ताभिधानःरुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३ ॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्पठति परमभक्त्या शुद्धचित्तः पुमान् यः ।स भवति शिवलोके रुद्रतुल्यस्तथात्रप्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५ ॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।महिम्नः स्तव पाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६ ॥
कुसुमदशननामा सर्वगन्धर्वराजःशिशुशशिधरमौलेर्देवदेवस्य दासः ।स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ ३७ ॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुंपठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।व्रजति शिवसमीपं किन्नरैः स्तूयमानःस्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८ ॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ ३९ ॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः ।अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१ ॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ४२ ॥
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेनस्तोत्रेण किल्बिषहरेण हरप्रियेण ।कण्ठस्थितेन पठितेन समाहितेनसुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥
इति श्रीपुष्पदन्त विरचितं श्री शिव महिम्नः स्तोत्रम्।
मार्कण्डेय कृतम्
महामृत्युञ्जय स्तोत्रम्
रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १ ॥
नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २ ॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३ ॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४ ॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५ ॥
गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६ ॥
त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७ ॥
भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८ ॥
अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९ ॥
आनन्दं परमं नित्यं कैवल्यपददायिनम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १० ॥
अर्धनारीश्वरं देवं पार्वतीप्राणनायकम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११ ॥
प्रलयस्थितिकर्तारमादिकर्तारमीश्वरम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२ ॥
व्योमकेशं विरूपाक्षं चन्द्रार्धकृतशेखरम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३ ॥
गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १४ ॥
अनाथः परमानन्दं कैवल्यःपदगामिनम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १५ ॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६ ॥
कल्पायुर्देहि मे पुण्यं यावदायुररोगताम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १७ ॥
शिवेशानां महादेवं वामदेवं सदाशिवम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १८ ॥
उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १९ ॥
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥ २० ॥
शतावर्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम् ।शुचिर्भूत्वा पठेत् स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ २१ ॥
मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ २२ ॥
तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड ।इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनं जपेत् ॥ २३ ॥
नमः शिवाय साम्बाय हरये परमात्मने ।प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ २४ ॥
श्रीमच्छङ्कराचार्य विरचितम्
कालभैरवाष्टकम्
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजंव्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।नारदादियोगिबृन्दवन्दितं दिगम्बरंकाशिकापुराधिनाथ कालभैरवं भजे ॥ १ ॥
भानुकोटिभास्वरं भवाब्धितारकं परंनीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।कालकालमम्बुजाक्षमक्षशूलमक्षरंकाशिकापुराधिनाथ कालभैरवं भजे ॥ २ ॥
शूलटङ्कपाशदण्डपाणिमादिकारणंश्यामकायमादिदेवमक्षरं निरामयम् ।भीमविक्रमं प्रभुं विचित्रताण्डवप्रियंकाशिकापुराधिनाथ कालभैरवं भजे ॥ ३ ॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहंभक्तवत्सलं स्थिरं समस्तलोकविग्रहम् ।निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिंकाशिकापुराधिनाथ कालभैरवं भजे ॥ ४ ॥
धर्मसेतुपालकं त्वधर्ममार्गनाशकंकर्मपाशमोचकं सुशर्मदायकं विभुम् ।स्वर्णवर्णकेशपाशशोभिताङ्गनिर्मलंकाशिकापुराधिनाथ कालभैरवं भजे ॥ ५ ॥
रत्नपादुकाप्रभाभिरामपादयुग्मकंनित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।मृत्युदर्पनाशनं करालदंष्ट्रभूषणंकाशिकापुराधिनाथ कालभैरवं भजे ॥ ६ ॥
अट्टहासभिन्नपद्मजाण्डकोशसन्ततिंदृष्टिपातनष्टपापजालमुग्रशासनम् ।अष्टसिद्धिदायकं कपालमालिकाधरंकाशिकापुराधिनाथ कालभैरवं भजे ॥ ७ ॥
भूतसङ्घनायकं विशालकीर्तिदायकंकाशिवासिलोकपुण्यपापशोधकं विभुम् ।नीतिमार्गकोविदं पुरातनं जगत्पतिंकाशिकापुराधिनाथ कालभैरवं भजे ॥ ८ ॥
कालभैरवाष्टकं पठन्ति ये मनोहरंज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् ।शोकमोहदैन्यलोभकोपतापनाशनंते प्रयान्ति कालभैरवाङ्घ्रिसन्निधिं ध्रुवम् ॥ ९ ॥
इति श्रीमच्छङ्कराचार्य विरचितं कालभैरवाष्टकं सम्पूर्णम्।
बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥
त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ३ ॥
सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् ।सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥
दन्तिकोटिसहस्राणि वाजपेयशतानि च ।कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥ ५ ॥
पार्वत्याः स्वेदसञ्जातं महादेवस्य च प्रियम् ।बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥ ६ ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७ ॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम् ॥ ८ ॥
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ९ ॥
इति बिल्वाष्टकम्।
