← स्तोत्र संग्रह

🪈

श्री कृष्ण स्तोत्र

भगवान् श्री कृष्ण की स्तुतियाँ

श्रीमच्छङ्कराचार्य कृतम्

अच्युताष्टकम्

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे ॥ १ ॥

अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम् ।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥ २ ॥

विष्णवे जिष्णवे शङ्खिने चक्रिणेरुक्मिणीरागिणे जानकीजानये ।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नमः ॥ ३ ॥

कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे ।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक ॥ ४ ॥

राक्षसक्षोभितः सीतया शोभितोदण्डकारण्यभूपुण्यताकारणम् ।लक्ष्मणेनान्वितो वानरैः सेवितो--ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५ ॥

धेनुकारिष्टहाऽनिष्टकृद्द्वेषिणांकेशिहा कंसहृद्वंशिकावादकः ।पूतनाकोपकः सूरजाखेलनोबालगोपालकः पातु मां सर्वदा ॥ ६ ॥

विद्युदुद्योतवत्प्रस्फुरद्वाससंप्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।वन्यया मालया शोभितोरःस्थलंलोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननंरत्नमौलिं लसत्कुण्डलं गण्डयोः ।हारकेयूरकं कङ्कणप्रोज्ज्वलंकिङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८ ॥

अच्युतस्याष्टकं यः पठेदिष्टदंप्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।वृत्ततः सुन्दरं वेद्यविश्वम्भरंतस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री अच्युताष्टकम्॥

श्रीमच्छङ्कराचार्य कृतम्

श्री गोविन्दाष्टकम्

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासंव्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकंलोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २ ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नंकैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासंशैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३ ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालंगोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानंगोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ ४ ॥

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभंशश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् ।श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावंचिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ ५ ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढंव्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः ।निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थंसत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥

कान्तं कारणकारणमादिमनादिं कालघनाभासंकालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।कालं कालकलातीतं कलिताशेषं कलिदोषघ्नंकालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्यायांकुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम् ।वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वंनन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता योगोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघोगोविन्दं परमानन्दामृतमन्तःस्थं स तमभ्येति ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री गोविन्दाष्टकम्।