🚩
श्री हनुमान स्तोत्र
संकटमोचन श्री हनुमान जी की संस्कृत स्तुतियाँ
श्रीमच्छङ्कराचार्य कृतम्
श्री हनुमत्पञ्चरत्नम्
वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १ ॥
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् ।सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥
शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम् ।कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥
इति श्रीमच्छङ्कराचार्य कृतौ हनुमत्पञ्चरत्नम्।
अच्युत कृतम्
श्रीहनुमदष्टकम्
श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशेचण्डमहाभुजदण्ड सुरारिविखण्डनपण्डित पाहि दयालो ।पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारंत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ १ ॥
संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलंपुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः ।केनचिदप्यमलेन पुराकृतपुण्यसुपुञ्जलवेन विभो वैत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ २ ॥
संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषंप्राप्य सुदुःखसहस्रभुजङ्गविषैकसमाकुलसर्वतनोर्मे ।घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ३ ॥
संसृतिसिन्धुविशालकरालमहाबलकालझषग्रसनार्तंव्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् ।कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मांत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ४ ॥
संसृतिघोरमहागहने चरतो मणिरञ्जितपुण्यसुमूर्तेःमन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसन्धेः ।मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथं चिदमेयंत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिवृक्षमनेकशताघनिदानमनन्तविकर्मसुशाखंदुःखफलं करणादिपलाशमनङ्गसुपुष्पमचिन्त्यसुमूलम् ।तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढंत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ६ ॥
संसृतिपन्नगवक्त्रभयङ्करदंष्ट्रमहाविषदग्धशरीरंप्राणविनिर्गमभीतिसमाकुलमन्दमनाथमतीव विषण्णम् ।मोहमहाकुहरे पतितं दययोद्धर मामजितेन्द्रियकामंत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ७ ॥
इन्द्रियनामकचोरगणैर्हृततत्त्वविवेकमहाधनराशिंसंसृतिजालनिपातितमेव महाबलिभिश्च विखण्डितकायम् ।त्वत्पदपद्ममनुत्तममाश्रितमाशु कपीश्वर पाहि कृपालोत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ८ ॥
ब्रह्ममरुद्गणरुद्रमहेन्द्रकिरीटसुकोटिलसत्पदपीठंदाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदब्जे ।तस्य हनूमत एव शिवङ्करमष्टकमेतदनिष्टहरं वैयः सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम् ॥ ९ ॥
इति श्री मधुसूदनाश्रम शिष्याऽच्युतविरचितं श्रीमद्दनुमदष्टकम्।
