← स्तोत्र संग्रह

🙏

श्री गुरु स्तोत्र

सद्गुरु व आदिशङ्कराचार्य की स्तुतियाँ

गुरुर्ब्रह्मा गुरुर्विष्णुः

गुरु स्तोत्रम्

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १ ॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३ ॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४ ॥

चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५ ॥

सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः ।वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ ६ ॥

चैतन्यः शाश्वतः शान्तो व्योमातीतो निरञ्जनः ।बिन्दुनादकलातीतस्तस्मै श्रीगुरवे नमः ॥ ७ ॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८ ॥

अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९ ॥

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १० ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ११ ॥

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२ ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ १३ ॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिंद्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतंभावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४ ॥

त्वमेव माता च पिता त्वमेवत्वमेव बन्धुश्च सखा त्वमेव ।त्वमेव विद्या द्रविणं त्वमेवत्वमेव सर्वं मम देवदेव ॥ १५ ॥

तोटकाचार्य कृतम् — आदिशङ्कराचार्य स्तुति

तोटकाष्टकम्

विदिताखिलशास्त्रसुधाजलधेमहितोपनिषत् कथितार्थनिधे ।हृदये कलये विमलं चरणंभव शङ्कर देशिक मे शरणम् ॥ १ ॥

करुणावरुणालय पालय मांभवसागरदुःखविदूनहृदम् ।रचयाखिलदर्शनतत्त्वविदंभव शङ्कर देशिक मे शरणम् ॥ २ ॥

भवता जनता सुहिता भवितानिजबोधविचारण चारुमते ।कलयेश्वरजीवविवेकविदं भवशङ्कर देशिक मे शरणम् ॥ ३ ॥

भव एव भवानिति मे नितरांसमजायत चेतसि कौतुकिता ।मम वारय मोहमहाजलधिंभव शङ्कर देशिक मे शरणम् ॥ ४ ॥

सुकृतेऽधिकृते बहुधा भवतोभविता समदर्शनलालसता ।अतिदीनमिमं परिपालय मांभव शङ्कर देशिक मे शरणम् ॥ ५ ॥

जगतीमवितुं कलिताकृतयोविचरन्ति महामहसश्छलतः ।अहिमांशुरिवात्र विभासि गुरोभव शङ्कर देशिक मे शरणम् ॥ ६ ॥

गुरुपुङ्गव पुङ्गवकेतन तेसमतामयतां नहि कोऽपि सुधीः ।शरणागतवत्सल तत्त्वनिधेभव शङ्कर देशिक मे शरणम् ॥ ७ ॥

विदिता न मया विशदैककलान च किञ्चन काञ्चनमस्ति गुरो ।द्रुतमेव विधेहि कृपां सहजांभव शङ्कर देशिक मे शरणम् ॥ ८ ॥