← स्तोत्र संग्रह

ॐ

श्री गणेश स्तोत्र

विघ्नहर्ता श्री गणेश जी की स्तुतियाँ

श्रीमच्छङ्कराचार्य कृतम्

श्री गणेश पञ्चरत्नम्

मुदा करात्तमोदकं सदा विमुक्तिसाधकंकलाधरावतंसकं विलासिलोकरक्षकम् ।अनायकैकनायकं विनाशितेभदैत्यकंनताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥

नतेतरातिभीकरं नवोदितार्कभास्वरंनमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरंमहेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरंदरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।कृपाकरं क्षमाकरं मुदाकरं यशस्करंमनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनंपुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।प्रपञ्चनाशभीषणं धनञ्जयादिभूषणंकपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजंअचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।हृदन्तरे निरन्तरं वसन्तमेव योगिनांतमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥

महागणेशपञ्चरत्नमादरेण योऽन्वहंप्रजल्पति प्रभातके हृदि स्मरन्गणेश्वरम् ।अरोगतामदोषतां सुसाहितीं सुपुत्रतांसमाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्य कृत श्रीगणेश पञ्चरत्नम्।

श्रीमच्छङ्कराचार्य कृतम्

श्री गणेश भुजङ्गम्

रणत्क्षुद्रघण्टानिनादाभिरामंचलत्ताण्डवोद्दण्डवत्पद्मतालम् ।लसत्तुन्दिलाङ्गोपरिव्यालहारंगणाधीशमीशानसूनुं तमीडे ॥ १ ॥

ध्वनिध्वंसवीणालयोल्लासिवक्त्रंस्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।गलद्दर्पसौगन्ध्यलोलालिमालंगणाधीशमीशानसूनुं तमीडे ॥ २ ॥

प्रकाशज्जपारक्तरत्नप्रसून--प्रवालप्रभातारुणज्योतिरेकम् ।प्रलम्बोदरं वक्रतुण्डैकदन्तंगणाधीशमीशानसूनुं तमीडे ॥ ३ ॥

विचित्रस्फुरद्रत्नमालाकिरीटंकिरीटोल्लसच्चन्द्ररेखाविभूषम् ।विभूषैकभूषं भवध्वंसहेतुंगणाधीशमीशानसूनुं तमीडे ॥ ४ ॥

उदञ्चद्भुजावल्लरीदृश्यमूलो--च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।मरुत्सुन्दरीचामरैः सेव्यमानंगणाधीशमीशानसूनुं तमीडे ॥ ५ ॥

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारंकृपाकोमलोदारलीलावतारम् ।कलाबिन्दुगं गीयते योगिवर्यै--र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥

यमेकाक्षरं निर्मलं निर्विकल्पंगुणातीतमानन्दमाकारशून्यम् ।परं पारमोङ्कारमाम्नायगर्भंवदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥

चिदानन्दसान्द्राय शान्ताय तुभ्यंनमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।नमोऽनन्तलीलाय कैवल्यभासेनमो विश्वबीज प्रसीदेशसूनो ॥ ८ ॥

इमं सुस्तवं प्रातरुत्थाय भक्त्यापठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।गणेशप्रसादेन सिध्यन्ति वाचोगणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥

इति श्रीमच्छङ्कराचार्य कृत श्रीगणेश भुजङ्गम्।